ⅩⅫ
Ⅰ अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।
Ⅱ नगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।
Ⅲ अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।
Ⅳ तस्य वदनदर्शनं प्राप्स्यन्ति भालेषु च तस्य नाम लिखितं भविष्यति।
Ⅴ तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।
Ⅵ अनन्तरं स माम् अवदत्, वाक्यानीमानि विश्वास्यानि सत्यानि च, अचिराद् यै र्भवितव्यं तानि स्वदासान् ज्ञापयितुं पवित्रभविष्यद्वादिनां प्रभुः परमेश्वरः स्वदूतं प्रेषितवान्।
Ⅶ पश्याहं तूर्णम् आगच्छामि, एतद्ग्रन्थस्य भविष्यद्वाक्यानि यः पालयति स एव धन्यः।
Ⅷ योहनहम् एतानि श्रुतवान् दृष्टवांश्चास्मि श्रुत्वा दृष्ट्वा च तद्दर्शकदूतस्य प्रणामार्थं तच्चरणयोरन्तिके ऽपतं।
Ⅸ ततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।
Ⅹ स पुन र्माम् अवदत्, एतद्ग्रन्थस्थभविष्यद्वाक्यानि त्वया न मुद्राङ्कयितव्यानि यतः समयो निकटवर्त्ती।
Ⅺ अधर्म्माचार इतः परमप्यधर्म्मम् आचरतु, अमेध्याचार इतः परमप्यमेध्यम् आचरतु धर्म्माचार इतः परमपि धर्म्मम् आचरतु पवित्राचारश्चेतः परमपि पवित्रम् आचरतु।
Ⅻ पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।
ⅩⅢ अहं कः क्षश्च प्रथमः शेषश्चादिरन्तश्च।
ⅩⅣ अमुतवृक्षस्याधिकारप्राप्त्यर्थं द्वारै र्नगरप्रवेशार्थञ्च ये तस्याज्ञाः पालयन्ति त एव धन्याः।
ⅩⅤ कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।
ⅩⅥ मण्डलीषु युष्मभ्यमेतेषां साक्ष्यदानार्थं यीशुरहं स्वदूतं प्रेषितवान्, अहमेव दायूदो मूलं वंशश्च, अहं तेजोमयप्रभातीयतारास्वरूपः।
ⅩⅦ आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।
ⅩⅧ यः कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्यानि शृणोति तस्मा अहं साक्ष्यमिदं ददामि, कश्चिद् यद्यपरं किमप्येतेषु योजयति तर्हीश्वरोग्रन्थेऽस्मिन् लिखितान् दण्डान् तस्मिन्नेव योजयिष्यति।
ⅩⅨ यदि च कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्येभ्यः किमप्यपहरति तर्हीश्वरो ग्रन्थे ऽस्मिन् लिखितात् जीवनवृक्षात् पवित्रनगराच्च तस्यांशमपहरिष्यति।
ⅩⅩ एतत् साक्ष्यं यो ददाति स एव वक्ति सत्यम् अहं तूर्णम् आगच्छामि। तथास्तु। प्रभो यीशोे, आगम्यतां भवता।
ⅩⅪ अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहः सर्व्वेषु युष्मासु वर्त्ततां। आमेन्।